Wednesday, October 13, 2010

श्रीगणेश उवाच

श्रीगणेश उवाच
तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे |
ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता || १ ||
यत्पादपद्ममतुलं ध्यायन्ते ते सुदुर्लभम् |
सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः || २ ||
जीवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः |
तस्य प्राणाभिदेवि त्वं प्रिया प्राणाधिका परा || ३ ||
वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः |
महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता || ४ ||
वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी |
वेदानां जगतामेव मूलप्रकृतिरीश्वरी || ५ ||
सर्वाः प्रकृतिका मातः सृष्ट्यां च त्वद्विभूतयः |
विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी || ६ ||
प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि |
आदौ राधां समुच्चार्य पश्चात् कृष्णं परात्परम् |
स एव पण्डितो योगी गोलोकं याति लीलया || ७ ||
जगतां भवती माता परमात्मा पिता हरिः |
पितुरेव गुरुर्माता पूज्या वन्द्या परात्परा || ८ ||
निषेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि |
भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे || ९ ||
निषेव्य मन्त्रं शम्भोश्च जगतां कारणस्य च |
तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् || १० ||
युवयोः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् |
क्षणार्धं षोडशांशं च न हि मुञ्चति दैवतः || ११ |
भक्त्या च युवयोर्मन्त्रं गृहीत्वा वैष्णवादपि |
स्तवं वा कवचं वापि कर्ममूलनिकृन्तनम् || १२ ||
यो जपेत् परया भक्त्या पुण्यक्षेत्रे च भारते |
पुरुषाणां सहस्रं च स्वात्मना सार्धमुद्धरेत् || १३ ||

|| इति श्रीब्रह्मवैवर्ते गणेशकृतं श्रीराधास्तवनं
सम्पूर्णम् ||

No comments:

Post a Comment