Wednesday, October 13, 2010

Siddhi and Siddha

The scriptures of the three great kulas - tripurA, kAlikA and kubjikA (baDabAnalIya krama tantra excludes tArA as one of the chief shakti-s) refer to various categories of Siddhas.

The jnAna-siddhas

या सैव कथिता सद्भिः परा मुद्रा करङ्किणी |
एषा ज्ञानाख्यरूपाणां सिद्धानां संस्थिता कला |
मुद्रयित्वा पृथग्भेदं मुद्रेयं करणोज्झिता ||

The mantra-siddhas

पृथिव्यादि प्रकृत्यन्त तत्त्वविस्तारविभ्रमः |
द्विषट्कद्विगुणात्मा यः पारिमित्यग्रहान्वितः ||
तमेव निगलन्त्युच्चैः क्रोधान्मन्त्रमरीचयः |
मन्त्रसिद्धा यतस्तस्या व्योमधामक्रमोदिताः ||
क्रोधेन तत्त्वविभवं नयत्युग्रनिराकुला |
या मान्त्रं परमं वीर्यं सा मुद्रा क्रोधिनी स्मृता ||

The melApa-siddhas

द्विषट्करूपभेदेन ग्रन्थयो ये व्यवस्थिताः |
तानेव भेदयित्वेमाः शक्तयः प्रोदिताः पराः ||
महामेलापधर्मिण्यः सामरस्यैकविग्रहाः |
निरावरणचिद्व्योमधामस्था भान्ति नित्यशः ||
आपूर्य स्वबलोद्रेकसमुत्थं भेदडम्बरम् |
या स्थिता पूर्णविभवा निरावरणविग्रहा ||
भैरवी सैव विख्याता मुद्रा सदसदुज्झिता |
निस्तरङ्गविकासात्मसामरस्यैकनिर्भरा |
एषा मेलापसिद्धानां मुद्रेयं भैरवात्मिका ||

The shAkta-siddhas

पुर्यष्टकस्य गदिता वासनाबीजविग्रहाः |
शक्तयो याः सूक्ष्मतरास्तासां संहरणोद्यताः ||
दीप्तयो यास्तीक्ष्णतमा विगतग्रहधामगाः |
ता एव कथिताः सम्यक् शाक्तसिद्धा निरामयाः ||

The shAmbhava-siddhas

परादि वैखरीत्यन्तं वागुल्लेखचतुष्टयम् |
यतस्तस्यैव निरता भेदग्रासाय दीप्तयः ||
सामरस्यपदप्राप्तिदायिन्यो या विकस्वराः |
ख्यातास्ता एव शाम्भव्यो देव्यो निर्द्वयधामगाः ||
तडिल्लेखैव या व्योम्नि यान्ती सर्वोज्झिते पदे |
स्वप्रकाशविकासैकरूपा सा खेचरी स्मृता ||
या स्पर्शा स्पर्शगगने चरन्ती निर्निकेतना |
सर्वावरणनिर्मुक्ता मुद्रा सा खेचरी स्मृता ||

No comments:

Post a Comment